📚 स्कन्दपुराणम्- अवन्तिखण्डः (रेवाभागः)
Page 1
Download 📥
________________ * श्रीगणेशायनमः * ॥ ॐ नमः श्रीपुरुषोत्तमाय ॥ ॐ नमोहरिहरहिरण्यगर्भेभ्यो नमोव्यासवाल्मीकिशुकपराशरेभ्यो नमोगुरुगो- ब्राह्मणेभ्यः ॥ स्कन्द पुराणस्थावन्तीखण्डान्तर्गतरेवाखण्ड- माहात्म्यारम्भः प्रथमोऽध्यायः पुराणसंहिता वर्णनम् ॐ नमोनर्मदायै ॥ ॐ मज्जन्मातङ्गगण्डच्युतमदमदिरामोदमत्तालिमालं, स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ॥ सायं प्रातमुनीनां कुसुमच्चय समाच्छन्नतीरस्थवृक्षं, पायाद्वो नर्मदाम्भः करिमकरकराक्रान्तरंहस्तरङ्गम् ॥ १ उभयतटपुण्यतीर्था प्रक्षालितसकललोकदुरितौधा । देवमुनिमनुजवन्द्या हरतु सदा नर्मदा दुरितम् ॥ २ ॥ नाशयतु दुरितमखिलं भूतं भव्यं भवच्च भुवि भविनाम् । सकलपवित्रितवसुधा पुण्यजला नर्मदा भवति ॥ ३ ॥